Sunday, February 5, 2023

श्रीमद भगवत गीता | पहला अध्याय॥ अर्जुन विषाद योग ॥

 ॥ अर्जुन विषाद योग ॥ 

Bhagavad Gita | Adhyay-1 | ॥ अर्जुन विषाद योग ॥


धृतराष्ट्र उवाच । 

धर्मक्षेत्रॆ कुरुक्षेत्रॆ समवेता युयुत्सवः । 

मामकाः पांडवाश्चैव किमकुर्वत संजय ॥१॥ 


संजय उवाच । 

दृष्ट्वातु पांडवानीकं व्यूढं दुर्योधनस्तदा । 

आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ २॥ 


पश्यैतां पांडुपुत्राणामाचार्य महतीं चमूम् । 

व्यूढां द्रुपदपुत्रॆण तव शिष्येण धीमता ॥ ३ ॥ 


अत्र शूरा महेष्वासा भीमार्जुन समायुधि । 

युयुधानॊ विराटश्च द्रुपदश्च महारथः ॥४॥ 


धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । 

पुरुजित्कुंतिभॊजश्च शैब्यश्च नरपुंगवः ॥५॥ 


युधामन्युश्च विक्रांत उत्तमौजाश्च वीर्यवान् 

सौभद्रो द्रौपदेयाश्च सर्व ऎव महारथाः ॥६॥ 


अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । 

नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥७॥ 


भवान् भीष्मश्च कर्णश्च कृपश्च समितिंजयः । 

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ ८ ॥ 


अन्यॆ च बहवः शूरा मदर्थे त्यक्तजीविताः । 

नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥९॥ 


अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितं । 

पर्याप्तं त्विदमॆतॆषां बलं भीमाभिरक्षितं ॥१०॥ 


अयनॆषु च सर्वेषु यथाभागमवस्थिताः । 

भीष्ममॆवाभिरक्षंतु भवंतः सर्व ऎव हि ॥११॥ 


तस्य संजनयन् हर्षं कुरुवृद्धः पितामहः । 

सिंहनादं विनद्यच्चैः शंखं दध्मौ प्रतापवान् ॥१२॥ 


ततः शंखाश्च भैर्यश्च पणवानकगॊमुखाः । 

सहसैवाभ्यहन्यंत स शब्दस्तुमुलॊऽभवत् ॥१३॥ 


ततः श्वेतैर्हयैर्युक्तॆ महति स्यंदनॆ स्थितौ । 

माधवः पांडवश्चैव दिव्यौ शंखौ प्रदध्मतुः ॥१४॥ 


पांचजन्यं हृषीकॆशॊ दॆवदत्तं धनंजयः । 

पौंड्रं दध्मौ महाशंखं भीमकर्मा वृकॊदरः ॥१५॥ 


अनंतविजयं राजा कुंतीपुत्रॊ युधिष्ठिरः । 

नकलः सहदेवश्र सघोषमणिपष्पकौ ॥१६॥ 


काश्यश्च परमॆष्वासः शिखंडी च महारथः । 

धृष्टद्युम्नॊ विराटश्च सात्यकिश्चापराजितः ॥१७॥ 


द्रुपदॊ द्रौपदॆयाश्च सर्वशः पृथिवीपतॆ । 

सौभद्रश्च महाबाहुः शंखान् दध्मुः पृथक् पृथक् ॥ १८॥ 


स चॊषॊ धार्तराष्ट्राणां हृदयानि व्यदारयत् । 

नभश्च पृथिवीं चैव तुमुलॊ व्यनुनादयन् ॥१९॥ 


अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः । 

प्रवृत्तॆ शस्त्रसंपातॆ धनुरुद्यम्य पांडवः ॥२०॥ 


हृषीकेशं तदा वाक्यमिदमाह महीपतॆ । 

अर्जुन उवाच । 

सॆनयॊरुभयॊर्मध्यॆ रथं स्थापय मेऽच्युत ॥२१॥ 


यावदॆतान्निरीक्षॆऽहं यॊद्धुकामानवस्थितान् । 

कैर्मया सह यॊद्धव्यमस्मिन्रणसमुद्यमॆ ||२२|| 


यॊत्स्यमानानवॆक्षेऽहं य ऎतॆऽत्र समागताः । 

धार्तराष्ट्रस्य दुर्बुद्धेः युद्धे प्रियचिकीर्षवः ॥२३॥ 


संजय उवाच । 

ऎवमुक्तॊ हृषीकॆशॊ गुडाकेशॆन भारत । 

सॆनयॊरुभयॊर्मध्यॆ स्थापयित्वा रथॊत्तमं ॥ २४ ॥ 


भीष्मद्रॊणप्रमुखतः सर्वेषां च महीक्षितां । 

उवाच पार्थ पश्यैतान् समवॆतान् कुरूनिति ॥२५॥ 


तत्रापश्यत् स्थितान् पार्थः पितनथ पितामहान् । 

आचार्यान् मातुलान् भ्रातन् पुत्रान् पौत्रान् सखींस्तथा ॥२६॥ 


श्वशुरान् सुहृदश्चैव सॆनयॊरुभयॊरपि । 

तान् समीक्ष्य स कौंतॆय: सर्वान् बंधून् अवस्थितान् ॥२७॥ 


कृपया परयाविष्टॊ विषीदन्निदमब्रवीत् । 

अर्जुन उवाच  

दृष्ट्वैमं स्वजनं कृष्ण युयुत्सुं समुपस्थितं ॥२८॥ 


सीदंति मम गात्राणि मुखं च परिशुष्यति । 

वेपथुश्च शरीरॆ मॆ रोमहर्षश्च जायते ॥२९॥ 


गांडीवं स्रंसतॆ हस्तात् त्वक्चैव परिदह्यतॆ । 

न च शक्नॊम्यवस्थातुं भ्रमतीव च मॆ मनः ॥३०॥ 


निमित्तानि च पश्यामि विपरीतानि केशव । 

न च श्रॆयॊऽनुपश्यामि हत्वा स्वजनमाहवॆ ॥३१॥ 


न कांक्षे विजयं कृष्ण न च राज्य सुखानि च । 

किं नॊ राज्यॆन गॊविंद किं भोगैर्जीवितॆन वा ॥३२॥


यॆषामर्थे कांक्षितं नॊ राज्यं भॊगाः सुखानि च । 

त इ॒मॆऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ ३३॥ 


आचार्याः पितरः पुत्रास्तथैव च पितामहाः । 

मातुलाः श्वशुराः पौत्राः श्यालाः संबंधिनस्तथा ॥ ३४॥ 


ऎतान्न हंतुमिच्छामि घ्तॊऽपि मधुसूदन । 

अपि त्रैलॊक्यराज्यस्य हॆतॊः किं नु महीकृतॆ ॥ ३५॥ 


निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । 

पापमॆवाश्रयॆदस्मान् हत्वैतानाततायिनः ॥३६॥ 


तस्मान्नार्हा वयं हंतुं धार्तराष्ट्रान् सबांधवान् । 

स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३७॥ 


यद्यप्यॆतॆ न पश्यंति लॊभॊपहतचॆतसः । 

कुलक्षयकृतं दॊषं मित्रहॆ च पातकं ॥३८॥ 


कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुं । 

कुलक्षयकृतं दॊषं प्रपश्यद्भिर्जनार्दन ॥३९॥ 


कलक्षये प्रणश्यंति कलधर्माः सनातनाः । 

धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥४०॥ 


अधर्माभिभवात्कृष्ण प्रदुष्यंति कुलस्त्रियः । 

स्त्रीषु दुष्टासु वाष्र्णॆय जायतॆ वर्णसंकरः ॥४१॥ 


संकरॊ नरकायैव कुलघ्नानां कुलस्य च । 

पतंति पितरॊ ह्येषां लुप्तपिंडॊदकक्रियाः ॥४२॥ 


दॊषैरेतैः कुलघ्नानां वर्णसंकरकारकैः । 

उत्साद्यंतॆ जातिधर्माः कुलधर्माश्च शाश्वताः ॥४३॥ 


उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । 

नरकॆ नियतं वासॊ भवतीत्यनुशुश्रुम ॥४४॥ 


अहॊ बत महत्पापं कर्तुं व्यवसिता वयं । 

यद्राज्यसुखलॊभॆन हंतुं स्वजनमुद्यताः ॥४५॥ 


यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । 

धार्तराष्ट्रा रणॆ हन्युस्तन्मॆ क्षॆमतरं भवॆत् ॥४६॥ 


संजय उवाच । 

ऎवमुक्त्वार्जुनः संख्यॆ रथॊपस्थ उपाविशत् । 

विसृज्य सशरं चापं शॊकसंविग्नमानसः ॥४७॥ 


ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां यॊगशास्त्रॆ श्रीकृष्णार्जुन संवादॆ अर्जुनविषाद यॊगॊ नाम प्रथमॊऽध्यायः ॥